मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ११

संहिता

शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।
दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥

पदपाठः

शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ ।
दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥

सायणभाष्यम्

ज्येष्ठो देवानांमुख्यो दीर्घश्रुत्तमो अतिशयेनविद्वानग्निः दमेषु यज्जिनां गृहेषु आदीदाय आदीप्यते तं शीरं अनुशायिनम् । तथाचयास्कः-अनुशायिनमितिवा शिनमितिवेति । पावकशोचिषं पावकदीप्तिं स्तुहीत्यर्थः ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११