मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १२

संहिता

तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् ।
मि॒त्रं न या॑त॒यज्ज॑नम् ॥

पदपाठः

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण॑म् ।
मि॒त्रम् । न । या॒त॒यत्ऽज॑नम् ॥

सायणभाष्यम्

हे विप्र मेधाविन् स्तोतः अवन्तंन अश्वमिव सानसिं संभजनीयं शुष्मिणं बलिनं मित्रं न सखायमिव यातयज्जनं हतशत्रुजननं तमग्निं गृंणीहि स्तुहि ॥ १२ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११