मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १३

संहिता

उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।
वा॒योरनी॑के अस्थिरन् ॥

पदपाठः

उप॑ । त्वा॒ । जा॒मयः॑ । गिरः॑ । देदि॑शतीः । ह॒विः॒ऽकृतः॑ ।
वा॒योः । अनी॑के । अ॒स्थि॒र॒न् ॥

सायणभाष्यम्

हे अग्ने हविष्कृतो यजमानार्थं गिरः स्तुतयः जामयः स्वसाइव देदिशतीः तवगुणान् दिशन्त्यः त्वा त्वामुपतिष्ठन्ते वायोरनीके समीपे त्वां समेधयन्त्यः अस्थिरन् अतिष्ठंश्च ॥ १३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११