मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १४

संहिता

यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् ।
आप॑श्चि॒न्नि द॑धा प॒दम् ॥

पदपाठः

यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् ।
आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥

सायणभाष्यम्

यस्याग्नेस्त्रिधातु त्रिरवृतं अनावृतंच असंदिनं अबद्धंच प्रस्तरणकालेहि बर्हिरबद्धं भवति बर्हिस्तस्थौ आसनार्थं तिष्ठति । तस्मिन्नग्नावापश्चित् आपोपि पदं स्थानं निदध निदधति आन्तरिक्ष्यामाध्यमिके पदं निदधतीत्यर्थः ॥ १४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११