मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १५

संहिता

प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभि॑ः ।
भ॒द्रा सूर्य॑ इवोप॒दृक् ॥

पदपाठः

प॒दम् । दे॒वस्य॑ । मी॒ळ्हुषः॑ । अना॑धृष्टाभिः । ऊ॒तिऽभिः॑ ।
भ॒द्रा । सूर्यः॑ऽइव । उ॒प॒ऽदृक् ॥

सायणभाष्यम्

मीह्ळुषः कामानां सेक्तुद्रेवस्य द्योतमानस्याग्नेः पदं स्थानं अनाधृष्टाभिः शत्रुभिरनाधृष्टाभिः ऊतिभीरक्षाभिः भजनीयं भवतीत्यर्थः तथैवा- स्योपद्दक् उपदृष्टिरपि सूर्यइव यथा सूर्यस्तद्वद्भद्रा मनुष्यैर्भजनीयाभवति ॥ १५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११