मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १७

संहिता

तं त्वा॑जनन्त मा॒तरः॑ क॒विं दे॒वासो॑ अङ्गिरः ।
ह॒व्य॒वाह॒मम॑र्त्यम् ॥

पदपाठः

तम् । त्वा॒ । अ॒ज॒न॒न्त॒ । मा॒तरः॑ । क॒विम् । दे॒वासः॑ । अ॒ङ्गि॒रः॒ ।
ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ॥

सायणभाष्यम्

हे अंगिरोग्ने कविं क्रान्तकर्माणं अमर्त्यं मरणरहितं हव्यवाहं हविषां विढारं तं प्रसिद्धं त्वा त्वां देवासोदेवाः मातरइवाजनन्त जनयन्ति ॥ १७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२