मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १८

संहिता

प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् ।
ह॒व्य॒वाहं॒ नि षे॑दिरे ॥

पदपाठः

प्रऽचे॑तसम् । त्वा॒ । क॒वे॒ । अग्ने॑ । दू॒तम् । वरे॑ण्यम् ।
ह॒व्य॒ऽवाह॑म् । नि । से॒दि॒रे॒ ॥

सायणभाष्यम्

हे कवे क्रान्तकर्मन्नग्ने प्रचेतसं प्रकृष्टबुद्धिं वरेण्यं वरणीयं दूतं देवानां हव्यवाहं हविषां वोढारं त्वा त्वां निषेदिरे देवानिषीदन्ति ॥ १८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२