मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १९

संहिता

न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।
अथै॑ता॒दृग्भ॑रामि ते ॥

पदपाठः

न॒हि । मे॒ । अस्ति॑ । अघ्न्या॑ । न । स्वऽधि॑तिः । वन॑न्ऽवति ।
अथ॑ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥

सायणभाष्यम्

हे अग्ने मे मम भार्गवस्य प्रयोगस्य ऋषेः अध्या गौः । अध्या उस्रेति गोनामसु पाठात् । नह्यस्ति नविद्यते । यस्याः पयसाज्येनच त्वां यजेय । किंच स्वधितिः परशुः नहि वनन्वति काष्ठानि हन्ति यैःकाष्ठैः त्वां समिन्धीय । अथैतादृक् अग्निहोत्रार्थं पयसोदोग्ध्रीं गां इन्धनसाधनानि काष्ठानि चैतत्सर्वं ते तुभ्यं अहं भरामि ॥ १९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२