मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् २०

संहिता

यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
ता जु॑षस्व यविष्ठ्य ॥

पदपाठः

यत् । अ॒ग्ने॒ । कानि॑ । कानि॑ । चि॒त् । आ । ते॒ । दारू॑णि । द॒ध्मसि॑ ।
ता । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥

सायणभाष्यम्

पूर्वस्यामृच्युक्तार्थस्य विवरणमत्र । हे यविष्ठ्य युवतमाग्ने तुभ्यं यद्यदा कानि कानिचित् यानिकान्यपि दारूणि काष्ठानि आदध्मसि आधारयामि । तदा ता तानि अपरशुवृक्णान्यपि जुषस्व सेवस्व । तथाच यजुर्ब्राह्मणं-नहस्मवै पुराग्निरपरशुवृक्णं दहति तदस्मै प्रयोगएव ऋषिरस्वदयद्यदग्ने यानि कानिचेति समिधमादधात्यपरशुवृक्णमेवास्मै स्वदयति सर्वमस्मै स्वदतइति ॥ २० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२