मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् २१

संहिता

यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
सर्वं॒ तद॑स्तु ते घृ॒तम् ॥

पदपाठः

यत् । अत्ति॑ । उ॒प॒ऽजिह्वि॑का । यत् । व॒म्रः । अ॒ति॒ऽसर्प॑ति ।
सर्व॑म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् ॥

सायणभाष्यम्

हे अग्ने यत् काष्ठादिकं उपजिह्विका उपजिघ्रतीत्युपजिह्विका अत्ति भक्षयति यच्च काष्ठादिकं वम्रः वमत्युदकमितिवम्रः । उपजिह्विकावम्रशब्दौ यद्यपि पर्यायौ तथापि पृथगुपादानात् वम्रशब्दस्तद्विशेषे पर्यवस्यति । सोप्यतिसर्पति अतिगच्छति तत् सर्वं ते तव घृतं घृतसदृशमस्तु यथा घृतं तव प्रियकरं भवति तथा प्रियकरं भवत्वित्यर्थः ॥ २१ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२