मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् १

संहिता

अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।
उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ॥

पदपाठः

अद॑र्शि । गा॒तु॒वित्ऽत॑मः । यस्मि॑न् । व्र॒तानि॑ । आ॒ऽद॒धुः ।
उपो॒ इति॑ । सु । जा॒तम् । आर्य॑स्य । वर्ध॑नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ॥

सायणभाष्यम्

यस्मिन्नग्नौ व्रतानि कर्माणि आदधुः यजमानाः आदधन् गातुवित्तमोतिशयेन मार्गाणां ज्ञाता सोग्निरदर्शि प्रादुरभूत् । किंच सुजातं सम्यक् प्रादुर्भूतं अस्यार्यस्य उत्तमवर्णस्य वर्धनं वर्धयितारमग्निं नोस्माकं गिरः स्तुतिरूपावाचः उपोनक्षन्त उपगच्छन्त्येव । नक्षगतावितिधातुः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३