मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् २

संहिता

प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।
अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥

पदपाठः

प्र । दैवः॑ऽदासः । अ॒ग्निः । दे॒वान् । अच्छ॑ । न । म॒ज्मना॑ ।
अनु॑ । मा॒तर॑म् । पृ॒थि॒वीम् । वि । व॒वृ॒ते॒ । त॒स्थौ । नाक॑स्य । सान॑वि ॥

सायणभाष्यम्

दैवोदासः दिवोदासेनाहूयमानोग्निः मातरम् । सर्वस्य लोकस्य धारकत्वात् पृथिवी माता । तां पृथिवीमच्छ प्रति देवान् तस्य दिवोदासस्य यज्ञे देवान् अनु प्रति हविर्वोढुं नप्रविववृते यस्मादेनमग्निं दिवोदासो मज्मना बलेनाजुहाव तस्मादयमग्निः नाकस्य स्वर्गस्य सानवि समुच्छ्रिते देशे स्वायतनएव तस्थावतिष्ठत् ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३