मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ३

संहिता

यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।
स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥

पदपाठः

यस्मा॑त् । रेज॑न्त । कृ॒ष्टयः॑ । च॒र्कृत्या॑नि । कृ॒ण्व॒तः ।
स॒ह॒स्र॒ऽसाम् । मे॒धसा॑तौऽइव । त्मना॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥

सायणभाष्यम्

यस्मात्कारणात् चर्कृत्यानि कर्तव्यानि कर्माणि कृण्वतः कुर्वाणान् मनुष्यान् कृष्टयः इतरेमनुष्या रेजन्त कंपन्ते तस्मादिदानीं हे जना यूयं सहस्रसां गवां धनानांच सहस्रस्य दातारमग्निं मेधसातौ यज्ञे धीभिः कर्तव्यैः कर्मभिः त्मना आत्मनैव सपर्यत परिचरत ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३