प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।
स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥
प्र । यम् । रा॒ये । निनी॑षसि । मर्तः॑ । यः । ते॒ । व॒सो॒ इति॑ । दाश॑त् ।
सः । वी॒रम् । ध॒त्ते॒ । अ॒ग्ने॒ । उ॒क्थ॒ऽशं॒सिन॑म् । त्मना॑ । स॒ह॒स्र॒ऽपो॒षिण॑म् ॥
हे वसो वासकाग्ने यं तव स्तोतारं राये धनार्थं प्रनिनीषसि प्रनेतुमिच्छसि । यश्चमर्तोमनुष्यस्ते तुभ्यं दाशत् हवींषि प्रयच्छति समनुष्यः उक्थशंसिनं उक्थानां शंसितारं त्मना आत्मनैव सहस्रपोषिणं वीरं पुत्रं धारयति ॥ ४ ॥