मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ६

संहिता

यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् ।
मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥

पदपाठः

यः । विश्वा॑ । दय॑ते । वसु॑ । होता॑ । म॒न्द्रः । जना॑नाम् ।
मधोः॑ । न । पात्रा॑ । प्र॒थ॒मानि॑ । अ॒स्मै॒ । प्र । स्तोमाः॑ । य॒न्ति॒ । अ॒ग्नये॑ ॥

सायणभाष्यम्

होता देवानामाह्वाता मन्द्रो मोदमानोयोग्निः विश्वा सर्वाणि वसु वसूनि धनानि जनानां जनेभ्यो दयते प्रयच्छति तस्मा अस्मा अग्नये मधोर्न मदकरस्य सोमस्येव प्रथमानि मुख्यानि पात्रा पात्राणि स्तोमाः प्रयन्ति प्रगच्छन्ति ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४