मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ९

संहिता

आ वं॑सते म॒घवा॑ वी॒रव॒द्यश॒ः समि॑द्धो द्यु॒म्न्याहु॑तः ।
कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥

पदपाठः

आ । वं॒स॒ते॒ । म॒घऽवा॑ । वी॒रऽव॑त् । यशः॑ । सम्ऽइ॑द्धः । द्यु॒म्नी । आऽहु॑तः ।
कु॒वित् । नः॒ । अ॒स्य॒ । सु॒ऽम॒तिः । नवी॑यसी । अच्छ॑ । वाजे॑भिः । आ॒ऽगम॑त् ॥

सायणभाष्यम्

मधवा धनवान् द्युम्नी अन्नवान् यशस्वीवा । तथाचयास्कः-द्युम्नंद्योततेर्यशोवान्नंवेति । समिद्धः संदीप्तः वीरवत् पराक्रमोपेतः आहुतः ऋत्वि- गादिभिराहूतोग्निः यशोयशस्करं अन्नमावंसते यजमानेभ्यः आप्रयच्छति । अस्याग्नेः नवीयसी नवतरासुमतिः अनुग्नहबुद्धिः नोस्मान् अच्छ प्रति वाजेभिः अन्नैः सह कुवित् बहुवारं सलिलं कुविदिति बहुनामसुपाठात् आगमत् आगच्छतु ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४