मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ११

संहिता

उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।
दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥

पदपाठः

उत्ऽइ॑ता । यः । निऽदि॑ता । वेदि॑ता । वसु॑ । आ । य॒ज्ञियः॑ । व॒वर्त॑ति ।
दु॒स्तराः॑ । यस्य॑ । प्र॒व॒णे । न । ऊ॒र्मयः॑ । धि॒या । वाज॑म् । सिसा॑सतः ॥

सायणभाष्यम्

वेदिता वेत्ता यज्ञियोयज्ञार्होग्निः उदिता उदितानि उद्गतानि निदिता निन्दितानि श्रुतानिच वसु वसुनि धनानि आववर्तति आवर्तयति । धिया कर्मणा वाजं संग्रामं सिषासतः संभक्तुमिच्छतः यस्याग्नेर्ज्वालाः प्रवणेनोर्मयः प्रवणाभिमुखाः समुद्रस्यतरंगाइव दुष्टराः तर्तुमश- क्याः तमग्निं हे स्तोतः स्तुहीत्यर्थः ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५