मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् १४

संहिता

आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभि॒ः सोम॑पीतये ।
सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥

पदपाठः

आ । अ॒ग्ने॒ । या॒हि॒ । म॒रुत्ऽस॑खा । रु॒द्रेभिः॑ । सोम॑ऽपीतये ।
सोभ॑र्याः॒ । उप॑ । सु॒ऽस्तु॒तिम् । मा॒दय॑स्व । स्वः॑ऽनरे ॥

सायणभाष्यम्

हे अग्ने मरुत्सखा मरुतांप्रियस्त्वं स्वर्नरे अस्माकं यजनलक्षणे कर्मणि सोमपीतये सोमपानाय रुद्रेभीरुद्रैः मरुद्भिः सह आयाहि आगच्छ । सोभर्याः सोभरेर्मम सुष्टुतिं शोभनां स्तुतिं चोपागच्छ । मादयस्व स्तुतिं श्रुत्वा सोमं पीत्वा आत्मानं मादयच ॥ १४ ॥

अथ पावमान्यं नवमं मण्डलं तत्र सप्तानुवाकाः तत्र प्रथमेनुवाके चतुर्विंशतिसंख्याकानि सूक्तानि । तत्र स्वादिष्ठयेति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-स्वादिष्ठयादश मधुच्छन्दाइति । वैश्वामित्रोमधुच्छन्दाऋषिः प्राग्वत्सप्रीयपरिभाषया गायत्रीछन्दः । नवमंमण्डलं पावमानंसौम्यमिति वचनात् पवमानगुणविशिष्टः सोमोदेवता । ग्रावस्तोत्रे अर्बुदसूक्तं प्रागुत्तमाया इदमादिकं सर्वं पावमानं विकल्पेना- वपनीयम् । सूत्रितंच-प्रैतेवदन्त्वित्यर्बुदं प्रागुत्तमाया आवऋंजसे प्रवोग्रावाणइति सूक्तयोरन्तरोपरिष्टात् पुरस्ताद्वा पावमानीरोप्ययथार्थमावा- पग्रहणादिति । उपाकर्मणि मंडलादिग्रहणे आद्या । सूत्रं पूर्वमेवोदाहृतम् ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५