मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् १

संहिता

स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
इन्द्रा॑य॒ पात॑वे सु॒तः ॥

पदपाठः

स्वादि॑ष्ठया । मदि॑ष्ठया । पव॑स्व । सो॒म॒ । धार॑या ।
इन्द्रा॑य । पात॑वे । सु॒तः ॥

सायणभाष्यम्

हे सोम इन्द्राय पातवे पातुं सुतोभिषुतस्त्वं स्वादिष्ठया स्वादुतमया मदिष्ठया अतिशवेन मादयित्र्या धारया पवस्व क्षर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६