मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् २

संहिता

र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।
द्रुणा॑ स॒धस्थ॒मास॑दत् ॥

पदपाठः

र॒क्षः॒ऽहा । वि॒श्वऽच॑र्षणिः । अ॒भि । योनि॑म् । अयः॑ऽहतम् ।
द्रुणा॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥

सायणभाष्यम्

रक्षोहा रक्षसां हन्ता विश्वचर्षणिः विश्वस्यद्रष्टा सोमः अयोहतं हिरण्येनहतम् । तथाचब्राह्मणं-हिरण्यपाणिरभिषुणोतीति । द्रुणा द्रोणकलशेन अधिषवणफलकाभ्यां वा सधस्थं सहस्थानं योनिं अभिषवस्थानं अभ्यासदत् अभ्यासीदति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६