मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् ३

संहिता

व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः ।
पर्षि॒ राधो॑ म॒घोना॑म् ॥

पदपाठः

व॒रि॒वः॒ऽधात॑मः । भ॒व॒ । मंहि॑ष्ठः । वृ॒त्र॒हन्ऽत॑मः ।
पर्षि॑ । राधः॑ । म॒घोना॑म् ॥

सायणभाष्यम्

हे सोम त्वं वरिवोधातमः अतिशयेन धनानां दाता भव । देवः वरिव इति धननामसुपाठात् । मंहिष्ठो दातृतमश्च भव सर्वदातृत्वमत्रोच्यत इत्यपुनरुक्तिः । वृत्रहन्तमोतिशयेन शत्रूणां हन्ता भव । किंच मघोनां धनवतां शत्रूणां राधोधनंच पर्षि अस्मभ्यं प्रयच्छ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६