मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् ६

संहिता

पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ॥

पदपाठः

पु॒नाति॑ । ते॒ । प॒रि॒ऽस्रुत॑म् । सोम॑म् । सूर्य॑स्य । दु॒हि॒ता ।
वारे॑ण । शश्व॑ता । तना॑ ॥

सायणभाष्यम्

हे सोम ते तव परिस्रुतं क्षरन्तं सोमं सोमरसं सूर्यस्य दुहिता श्रद्धादेवी वारेण बलेन शश्वता शश्वतेन तना विस्तृतेन पुनाति । तथाच वाजसनेयिनआमनन्ति-श्रद्धावैसूर्यस्यदुहिता श्रद्धाह्येनंपुनातीति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७