मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् ७

संहिता

तमी॒मण्वी॑ः सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ ।
स्वसा॑र॒ः पार्ये॑ दि॒वि ॥

पदपाठः

तम् । ई॒म् । अण्वीः॑ । स॒ऽम॒र्ये । आ । गृ॒भ्णन्ति॑ । योष॑णः । दश॑ ।
स्वसा॑रः । पार्ये॑ । दि॒वि ॥

सायणभाष्यम्

समर्ये समनुष्ये यज्ञे पार्ये दिवि सौत्येहनि योषणः स्त्रियः स्वसारः स्वयंसरन्त्यो दशसंख्याकाः अण्वीः अण्व्योंगुलयः । अग्रुवः अण्व्यइत्यंगुलिनाम- सुपाठात् । तमीं तमेनं सोमं आगृभ्णन्ति आगृह्णन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७