मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् ८

संहिता

तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् ।
त्रि॒धातु॑ वार॒णं मधु॑ ॥

पदपाठः

तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒ग्रुवः॑ । धम॑न्ति । बा॒कु॒रम् । दृति॑म् ।
त्रि॒ऽधातु॑ । वा॒र॒णम् । मधु॑ ॥

सायणभाष्यम्

तमीं एनं सोमं अग्रुवोंगुलयोहिन्वन्ति अभिषवदेशं प्रति प्रेरयन्ति । प्रेरयित्वाच बाकुरं भासमानं दृतिं दृतिसदृशांशुमेनं सोमं धमन्ति अभिषु- ण्वन्तिच । युद्यपि धमतिरभिषवणकर्मा नभवति तथाप्यौचित्यादत्राभिषवपरोभविष्यति । तदेतत्सोमात्मकं मधु वस्तु त्रिधातु त्रिस्थानम् । द्रोणकलशः आधवनीयः पूतभृदिति त्रिधातवः । वारणं शत्रूणां वारकंच भवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७