मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् १

संहिता

पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ ।
इन्द्र॑मिन्दो॒ वृषा वि॑श ॥

पदपाठः

पव॑स्व । दे॒व॒ऽवीः । अति॑ । प॒वित्र॑म् । सो॒म॒ । रंह्या॑ ।
इन्द्र॑म् । इ॒न्दो॒ इति॑ । वृषा॑ । आ । वि॒श॒ ॥

सायणभाष्यम्

ह सोम देववीः देवकामस्त्वं रंह्या वेगेन पवित्रं यथा भवति तथा अतिपवस्व अतिक्षर । किंच हे इन्दो वृषा सेचकस्त्वं इन्द्रमाविश प्रविश ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८