मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् २

संहिता

आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे॑न्दो द्यु॒म्नव॑त्तमः ।
आ योनिं॑ धर्ण॒सिः स॑दः ॥

पदपाठः

आ । व॒च्य॒स्व॒ । महि॑ । प्सरः॑ । वृषा॑ । इ॒न्दो॒ इति॑ । द्यु॒म्नव॑त्ऽतमः ।
आ । योनि॑म् । ध॒र्ण॒सिः । स॒दः॒ ॥

सायणभाष्यम्

हे इन्दो सोम महि महान् वृषा कामानां वर्षको द्युम्रवत्तमो यशस्वितमो धर्णसिर्धर्तात्वं प्यरः पानीयं महु आवच्यस्व अस्मान् प्रत्यागमय । योनिं स्वकीयं स्थानमासदः आसीद च ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८