मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ४

संहिता

म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्षन्ति॒ सिन्ध॑वः ।
यद्गोभि॑र्वासयि॒ष्यसे॑ ॥

पदपाठः

म॒हान्त॑म् । त्वा॒ । म॒हीः । अनु॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।
यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥

सायणभाष्यम्

हे सोम त्वं यद्यदा यज्ञे गोभिः गोविकारैः पयोभिः वासयिष्यसे आच्छादयिष्यसे तत्तदा महान्तं त्वा त्वामनु प्रति सिन्धवः स्यन्दमानाः महीर्महत्यः आपःअर्षन्ति गच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८