मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ५

संहिता

स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः ।
सोमः॑ प॒वित्रे॑ अस्म॒युः ॥

पदपाठः

स॒मु॒द्रः । अ॒प्ऽसु । म॒मृ॒जे॒ । वि॒ष्ट॒म्भः । ध॒रुणः॑ । दि॒वः ।
सोमः॑ । प॒वित्रे॑ । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

समुद्रः समुद्द्रवन्त्यस्माद्र्साइति समुद्रः विष्टंभोदिवः स्वर्गस्य धरुणोधारकश्च अस्मयुरस्मत्कामः सोमोप्सूदकेषु ममृजे मृज्यते पवित्रे अभिषिच्यतइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८