मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ७

संहिता

गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ ।
याभि॒र्मदा॑य॒ शुम्भ॑से ॥

पदपाठः

गिरः॑ । ते॒ । इ॒न्दो॒ इति॑ । ओज॑सा । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ ।
याभिः॑ । मदा॑य । शुम्भ॑से ॥

सायणभाष्यम्

हे इन्दो ते तव ओजसा बलन अपस्युवः कर्मे च्छासंबन्धिन्यः तागिरः स्तुतयोमर्मृज्यन्ते शोध्यन्ते । याभिर्गीर्भिस्त्वं मदाय क्षरन् शुंभसे अलंक्रियसे ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९