मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ८

संहिता

तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे ।
तव॒ प्रश॑स्तयो म॒हीः ॥

पदपाठः

तम् । त्वा॒ । मदा॑य । घृष्व॑ये । ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । ई॒म॒हे॒ ।
तव॑ । प्रऽश॑स्तयः । म॒हीः ॥

सायणभाष्यम्

हे सोम यस्य तव प्रशस्तयः प्रशंसाः महीर्महत्यः घृष्वये उ त्वत् प्रसादात् शत्रूणां धर्षणशीलाय यजमानायैव लोककृत्नुं उत्तमस्य लोकस्य कर्तारं तं त्वां सोमं मदाय ईमहे वयं याचामहे ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९