मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् १०

संहिता

गो॒षा इ॑न्दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त ।
आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥

पदपाठः

गो॒ऽसाः । इ॒न्दो॒ इति॑ । नृ॒ऽसाः । अ॒सि॒ । अ॒श्व॒ऽसाः । वा॒ज॒ऽसाः । उ॒त ।
आ॒त्मा । य॒ज्ञस्य॑ । पू॒र्व्यः ॥

सायणभाष्यम्

हे इन्दो यज्ञस्य पूर्व्यः प्रत्नः आत्मा आत्मभूतस्त्वं गोषाः अस्मभ्यं गवां दातासि भवसि । नृषाः पुत्राणां दाताचासि । अश्वसाः अश्वानां दाताचासि । उतापिच वाजसाः अन्नानां दाताचासि ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९