मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् १

संहिता

ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।
अ॒भि द्रोणा॑न्या॒सद॑म् ॥

पदपाठः

ए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ ।
अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥

सायणभाष्यम्

एषदेवइति दशर्चं तृतीयं सूक्तं आजीगर्तेः शुनःशेपस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-एषशुनःशेपइति । उक्तोविनियोगः ।

देवोद्योतमानः अमर्त्योमरणरहितः एषसोमो द्रोणानि द्रोणकलशानि अभि अभिलक्ष्य आसदं आसदनार्थं पर्णवीरिव यथा पक्षी तथा वेगेन दीयति गच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०