मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् २

संहिता

ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।
पव॑मानो॒ अदा॑भ्यः ॥

पदपाठः

ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ ।
पव॑मानः । अदा॑भ्यः ॥

सायणभाष्यम्

विपा अंगुल्या । विपः कक्ष्याः इत्यंगुलिनामसुपाठात् । कृतोभिषुतःएषसोमोदेवः पवमानः क्षरन् अदाभ्यः केनाप्यहिंसितश्चसन् ह्वरांसि शत्रूनतिधावति हन्तुमतिगच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०