मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ३

संहिता

ए॒ष दे॒वो वि॑प॒न्युभि॒ः पव॑मान ऋता॒युभि॑ः ।
हरि॒र्वाजा॑य मृज्यते ॥

पदपाठः

ए॒षः । दे॒वः । वि॒प॒न्युऽभिः॑ । पव॑मानः । ऋ॒त॒युऽभिः॑ ।
हरिः॑ । वाजा॑य । मृ॒ज्य॒ते॒ ॥

सायणभाष्यम्

पवमानः क्षरन्नेष सोमोदेवोविपन्युभिः स्तोतृभिः ऋतायुभिः यज्ञकामैर्वा हरिरश्वइव वाजाय संग्रामार्थं मृज्यते स्तुतिभिरलंक्रियते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०