मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ४

संहिता

ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।
पव॑मानः सिषासति ॥

पदपाठः

ए॒षः । विश्वा॑नि । वार्या॑ । शूरः॑ । यन्ऽइ॑व । सत्व॑ऽभिः ।
पव॑मानः । सि॒सा॒स॒ति॒ ॥

सायणभाष्यम्

पवमानः क्षरन् शूरोवीर एषसोमो विश्वानि सर्वाणि वार्या वरणीयानि धनानि सत्वभिर्बलैः यन्निव गच्छन्निव सिषासति अस्मदर्थं संभक्तु- मिच्छति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०