मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ५

संहिता

ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।
आ॒विष्कृ॑णोति वग्व॒नुम् ॥

पदपाठः

ए॒षः । दे॒वः । र॒थ॒र्य॒ति॒ । पव॑मानः । द॒श॒स्य॒ति॒ ।
आ॒विः । कृ॒णो॒ति॒ । व॒ग्व॒नुम् ॥

सायणभाष्यम्

पवमानः क्षरन्नेष सोमोदेवो रथर्यति अस्मदीयं यागं प्रत्यागमनाय रथं कामयते । दशस्यति आगत्यच अस्मभ्यमभिलषितं प्रयच्छति । वग्वनुं शब्दं आविः कृणोति अभिषूयमाणः प्रकटयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०