मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ७

संहिता

ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।
पव॑मान॒ः कनि॑क्रदत् ॥

पदपाठः

ए॒षः । दिव॑म् । वि । धा॒व॒ति॒ । ति॒रः । रजां॑सि । धार॑या ।
पव॑मानः । कनि॑क्रदत् ॥

सायणभाष्यम्

धारया पवमानः क्षरन्नेषसोमः कनिक्रदत् अभिषूयमाणः शब्दंकुर्वन् रजांसि लोकान् तिरः तिरस्कुर्वन् यागाद्दिवं स्वर्गं विधावति गच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१