मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ८

संहिता

ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।
पव॑मानः स्वध्व॒रः ॥

पदपाठः

ए॒षः । दिव॑म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां॑सि । अस्पृ॑तः ।
पव॑मानः । सु॒ऽअ॒ध्व॒रः ॥

सायणभाष्यम्

पवमानः क्षरन्नेषसोमः स्वध्वरः सुयज्ञः अस्पृतः केनाप्यहिंसितश्चसन् रजांसि लोकान् तिरः तिरस्कुर्वन् यज्ञाद्दिवं प्रतिव्यासरत् विसरति गच्छति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१