मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ९

संहिता

ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्य॑ः सु॒तः ।
हरि॑ः प॒वित्रे॑ अर्षति ॥

पदपाठः

ए॒षः । प्र॒त्नेन॑ । जन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।
हरिः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

हरिर्हरितवर्णोदेवः द्योतमानः एषसोमः प्रत्नेन पुराणेन जन्मना जननेन देवेभ्यो देवार्थं सुतोभिषुतः सन् पवित्रे स्थातुं अर्षति गच्छति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१