मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् १

संहिता

सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

सन॑ । च॒ । सो॒म॒ । जेषि॑ । च॒ । पव॑मान । महि॑ । श्रवः॑ ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे महिश्रवः महदन्न पवमानसोम सनास्मद्यागे यजनीयान् देवान् भज जेषिच यागविध्वंसकारिणोराक्षसांश्च जय । अथ देवान् प्राप्य राक्षसांश्च जित्वा अनन्तरं नोस्मान् वस्यसः श्रेयस्कृधि कुरु श्रेयोस्मभ्यं देहीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२