मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् २

संहिता

सना॒ ज्योति॒ः सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

सन॑ । ज्योतिः॑ । सन॑ । स्वः॑ । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे सोम त्वं ज्योतिस्तेजः सन अस्मभ्यं प्रयच्छ । अपिच स्वः स्वर्गं सन अस्मभ्यं देहि । विश्वा विश्वानि सौभगा सौभाग्यानि च सन । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२