मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् ४

संहिता

पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

पवि॑तारः । पु॒नी॒तन॑ । सोम॑म् । इन्द्रा॑य । पात॑वे ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे पवीतारः सोमाभिषकर्तारोयूयं इन्द्राय पातवे पातुं सोमं पुनीतन अभिषूणुत । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२