मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् ५

संहिता

त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभि॑ः ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

त्वम् । सूर्ये॑ । नः॒ । आ । भ॒ज॒ । तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे सोम त्वं तव क्रत्वा तवोतिभिः त्वत्कर्तृकेण कर्मणा त्वत्कर्तृकाभीरक्षाभिश्च नोस्मान् सूर्ये आभज प्रापय । सिद्धमान्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२