मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् ६

संहिता

तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ । ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे सोम तव क्रत्वा प्रज्ञानेन तवोतिभीरक्षाभिश्च ज्योक् चिरं पश्येम सूर्यं पश्याम द्रक्ष्यामः । सिद्धमन्यत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३