मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् १०

संहिता

र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

र॒यिम् । नः॒ । चि॒त्रम् । अ॒श्विन॑म् । इन्दो॒ इति॑ । वि॒श्वऽआ॑युम् । आ । भ॒र॒ ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे इन्दो यागेषु क्लिद्यमान सोम त्वं चित्रं नानाविधं कश्विनं अश्ववन्तं च विश्वायुं सर्वगामिनं रयिं नोस्मभ्यं आभर आहर । सिद्धमन्यत् ॥ १० ॥

समिद्धइत्येकादशर्चं पंचमं सूक्तं काश्यपासितस्य देवलस्यवार्षं अष्टम्याद्याश्चस्रोनुष्टुभः शिष्टाः सप्तगायत्र्यः नराशंसवर्जिताः समिद्धाअदयः क्रमेण प्रत्यृचंदेवताः । तथाचानुक्रान्तं-समिद्धएकादश काश्यपोसितोदेवलोवा विंशतिः सूक्तान्याद्यमाप्रियश्चतुरनुष्टुबन्तमिति । काश्यपस्य पावमानमिदमाप्रीसूक्तम् । सूत्रितंच-समिद्धोअद्येति सर्वेषांयथाऋषिवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३