मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् १

संहिता

समि॑द्धो वि॒श्वत॒स्पति॒ः पव॑मानो॒ वि रा॑जति ।
प्री॒णन्वृषा॒ कनि॑क्रदत् ॥

पदपाठः

सम्ऽइ॑द्धः । वि॒श्वतः॑ । पतिः॑ । पव॑मानः । वि । रा॒ज॒ति॒ ।
प्री॒णन् । वृषा॑ । कनि॑क्रदत् ॥

सायणभाष्यम्

आप्रीयसोमस्तुतिरत्र समिद्धः सम्यग्दीप्तः विश्वतस्पतिः सर्वतः स्वामी वृषा कामानां वर्षिता पवमानः सोमः कनिक्रदत् अभिषूयमाणः शब्दंकुर्वन् प्रीणन् देवान् प्रीणयन् विराजति यागेषु प्रकाशते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४