मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् २

संहिता

तनू॒नपा॒त्पव॑मान॒ः शृङ्गे॒ शिशा॑नो अर्षति ।
अ॒न्तरि॑क्षेण॒ रार॑जत् ॥

पदपाठः

तनू॒३॒॑ऽनपा॑त् । पव॑मानः । शृङ्गे॒ इति॑ । शिशा॑नः । अ॒र्ष॒ति॒ ।
अ॒न्तरि॑क्षेण । रार॑जत् ॥

सायणभाष्यम्

तनूनपात् पवमानः सोमः तनूनपादत्रसोमोभवति । तथाचश्रूयते-अड्भ्योंशवोजायन्ते ततः सोमोजायतइति । शृंगे दीप्तउन्नतप्रदेशे । हृणिः शृंगाणीति ज्वलनामसुपाठात् । शिशानस्तीक्ष्णीकुर्वन् अन्तरिक्षेण रारजत् अर्षति द्रोणकलशंप्रति गच्छति । तथाचाम्नायते-द्वाभ्यांधाराभ्यां आग्नयणंगृह्णातीति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४