मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ३

संहिता

ई॒ळेन्य॒ः पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।
मधो॒र्धारा॑भि॒रोज॑सा ॥

पदपाठः

ई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।
मधोः॑ । धारा॑भिः । ओज॑सा ॥

सायणभाष्यम्

ईळेन्यः स्तुत्यः पवमानः सोमः रयिः उभीष्टस्यदाता द्युमान् दीप्तिमांश्चसन् मधोरुदकस्य धाराभिः सहक्षरन् ओजसा बलेन विराजति प्रकाशते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४