मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ४

संहिता

ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरि॑ः ।
दे॒वेषु॑ दे॒व ई॑यते ॥

पदपाठः

ब॒र्हिः । प्रा॒चीन॑म् । ओज॑सा । पव॑मानः । स्तृ॒णन् । हरिः॑ ।
दे॒वेषु॑ । दे॒वः । ई॒य॒ते॒ ॥

सायणभाष्यम्

हरिः हरितवर्णोदेवोद्योतमानः सोमः पवमानः देवेषु यज्ञेषु बर्हिः प्राचीनं प्राचीनाग्रं स्तृणन् तारयन् ओजसा बलेन ईयते गच्छति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४