मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ५

संहिता

उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑ः ।
पव॑मानेन॒ सुष्टु॑ताः ॥

पदपाठः

उत् । आतैः॑ । जि॒ह॒ते॒ । बृ॒हत् । द्वारः॑ । दे॒वीः । हि॒र॒ण्ययीः॑ ।
पव॑मानेन । सुऽस्तु॑ताः ॥

सायणभाष्यम्

हिरण्ययीः हिरण्मय्यः द्वारोदेवीर्द्वारोदेव्यः पवमानेन सोमेन सह सुष्टुताः स्तोतृभिः सम्यक् स्तुताः सत्यः बृहत् बृहतीभ्यो महतीभ्यः आतैः आताभ्योदिग्भ्यः । आता आशाइति दिङ्मामसुपाठात् उज्जिहते उद्गच्छन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४